वांछित मन्त्र चुनें

इ॒मं वि॒धन्तो॑ अ॒पां स॒धस्थे॑ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् । गुहा॒ चत॑न्तमु॒शिजो॒ नमो॑भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ॥

अंग्रेज़ी लिप्यंतरण

imaṁ vidhanto apāṁ sadhasthe paśuṁ na naṣṭam padair anu gman | guhā catantam uśijo namobhir icchanto dhīrā bhṛgavo vindan ||

पद पाठ

इ॒मम् । वि॒धन्तः॑ । अ॒पाम् । स॒धऽस्थे॑ । प॒शुम् । न । न॒ष्टम् । प॒दैः । अनु॑ । ग्म॒न् । गुहा॑ । चत॑न्तम् । उ॒शिजः॑ । नमः॑ऽभिः । इ॒च्छन्तः॑ । धीराः॑ । भृग॑वः । अ॒वि॒न्द॒न् ॥ १०.४६.२

ऋग्वेद » मण्डल:10» सूक्त:46» मन्त्र:2 | अष्टक:8» अध्याय:1» वर्ग:1» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशिजः-भृगवः-धीराः) परमात्मा को चाहते हुए तेजस्वी ध्यानी जन (इमं विधन्तः) इस परमात्मा को उपासना में लाते हुए (अपां सधस्थे) प्राणों के सहस्थान हृदय में (इच्छन्तः-नष्टं पशुं न पदैः-अनुग्मन्) नष्ट-खोये हुए पशु को जैसे पदचिह्नों से खोजते हुए पदचिह्नों का अनुसरण करते हैं, उसी भाँति परमात्मा को चाहते हुए प्राप्त करते हैं (गुहा चतन्तम्) हृदयगुहा में प्राप्त को (नमोभिः-अविन्दन्) स्तुतियों-अध्यात्मयज्ञों के द्वारा साक्षात् करते हैं ॥ २॥
भावार्थभाषाः - उपासक जन परमात्मा की खोज स्तुतियों और अध्यात्मयज्ञों के द्वारा करते हैं, पुनः उसे हृदय में साक्षात् प्राप्त कर लेते हैं ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (उशिजः-भृगवः-धीराः) परमात्मानं कामयमानाः “उशिग्वष्टेः कान्तिकर्मणः” [निरु० ६।१०] तेजस्विनः, “भृगुर्भृज्यमानो न देहे” [निरु० ३।१७] “ध्यानिनः-ध्यानवन्तः”  [ऋ० १।६२।१२ दयानन्दः] (इमं विधन्तः) एतं परमात्मानं परिचरन्तः-उपासमानाः “विधन्तः परिचरन्तः” [ऋ० २।४।२ दयानन्दः] (अपां सधस्थे) प्राणानां सहस्थाने हृदये (इच्छन्तः पशुं न नष्टं पदैः-अनुग्मन्) अपहृतं पलायितं गुप्तं पशुं यथा तत्पदचिह्नैः पदचिह्नानि-अनुगच्छन्ति अन्विष्यन्ति तद्वत् परमात्मानमिच्छन्तस्तमन्वेषयन्ति प्राप्नुवन्ति (गुहा चतन्तम्) हृद्गुहायां व्याप्तं वर्तमानम् “चतन्तम् गच्छन्तं व्याप्तम्” [ऋ० १।६५।१ दयानन्दः] (नमोभिः-अविन्दन्) स्तुतिभिः-अध्यात्मयज्ञैर्वा “सप्तनामा सप्तैनमृषयः स्तुवन्ति” [निरु० ४।२७] “यज्ञो वै नमः” [श० २।४।२।२४] लभन्ते प्राप्नुवन्ति साक्षात्कुर्वन्ति ॥२॥